(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.158. अध्यायः 158
Mahabharata - Udyoga Parva - Chapter Topics
श्रीकृषअणश्यालस्य रुक्मिणः पाण्डवानुपेत्य अर्जुनंप्रति तस्य भयविकल्पपूर्वकं दर्पास्त्वेन साहाय्यकरणोक्तिः ॥ 1 ॥ अर्जुनेन तस्य प्रत्याख्यानम् ॥ 2 ॥ दुर्योधनमेत्य तथाभाषिणस्तस्य तेनापि प्रत्याख्यानम् ॥ 3 ॥


Mahabharata - Udyoga Parva - Chapter Text

5-158-0(37203)
वैशम्पायन उवाच। 5-158-0x(3851)
एतस्मिन्नैव काले तु भीष्मकस्य महात्मनः ।
हिरण्यरोम्णो नृपतेः साक्षादिन्द्रसखस्य वै ॥ 5-158-1(37204)
आकूतीनामधिपतिर्भोजस्यातियशस्विनः ।
दाक्षिणात्यपतेः पुत्रो दिक्षु रुक्मीति विश्रुतः ॥ 5-158-2(37205)
यः किंपुरुषसिंहस्य गन्धमादनवासिनः ।
कृत्स्नं शिष्यो धनुर्वेदं चतुष्पादमवाप्तवान् ॥ 5-158-3(37206)
यो माहेन्द्रं धनुर्लेभे तुल्यं गाण्डीवतेजसा।
शार्ङ्गेण च महाबाहुः संमितं दिव्यलक्षणम् ॥ 5-158-4(37207)
त्रीण्येवैतानि दिव्यानि धनूंषि दिविचारिणाम् ।
वारुणं गाण्डिवं तत्र माहेन्द्रं विजयं धनुः ।
शार्ङ्ग तु वैष्णवं प्राहुर्दिव्यं तेजोमयं धनुः ॥ 5-158-5(37208)
धारयामास तत्कृष्णः परसेनाभयावहम्।
गाण्डीवं पावकाल्लेभे खाण्डवे पाकशासनिः ॥ 5-158-6(37209)
द्रुमाद्रुक्मी महातेजा विजयं प्रत्यपद्यत।
संछिद्य मौरवान्पाशान्निहत्य मुरमोजसा ॥ 5-158-7(37210)
निर्जित्य नरकं भौममाहृत्य मणिकुण्डले ।
षोडश स्त्रीसहस्राणि रत्नानि विविधानि च ॥ 5-158-8(37211)
प्रतिपेदे हृषीकेशः शार्ङ्गं च धनुरुत्तमम्।
रुक्मी तु विजयं लब्ध्वा धनुर्मेघनिभस्वनम् ॥ 5-158-9(37212)
विभीषयन्निव जगत्पाण्डवानभ्यवर्तत।
नामृष्यत पुरा योऽसौ स्वबाहुलगर्वितः ॥ 5-158-10(37213)
रुक्मिण्या हरणं वीरो वासुदेवेन धीमता।
कृत्वा प्रतिज्ञां नाहत्वा निवर्तिष्ये जनार्दनम् ॥ 5-158-11(37214)
ततोऽन्वधावद्वार्ष्णेयं सर्वशस्त्रभृतां वरः।
सेनया चतुरङ्गिण्या महत्या दूरपातया ॥ 5-158-12(37215)
विचित्रायुधवर्मिण्या गङ्ग्येव प्रवृद्धया।
स समासाद्य वार्ष्णेयं योगानामीश्वरं प्रभुम् ॥ 5-158-13(37216)
व्यंसितो व्रीडितो राजन्नाजगाम स कुण्डिनम्।
यत्रैव कृष्णेन रणे निर्जितः परवीरहा ॥ 5-158-14(37217)
तत्र भोजकटं नाम कृतं नगरमुत्तमम् ।
सैन्येन महता तेन प्रभूतगजवाजिना ॥ 5-158-15(37218)
पुरं तद्भुवि विख्यातं नाम्ना भोजकटं नृप ।
स भोजराजः सैन्येन महता परिवारितः ॥ 5-158-16(37219)
अक्षौहिण्या महावीर्यः पाण्डवान्क्षिप्रमागमत्।
ततः स कवची धन्वी तली खङ्गी शरासनी ॥ 5-158-17(37220)
रथेनादित्यवर्णेन प्रविवेश महाचमूम् ।
विदितः पाण्डवेयानां वासुदेवप्रियेप्सया ॥ 5-158-18(37221)
युधिष्ठिरस्तु तं राजा प्रत्युद्गम्याभ्यपूजयत्।
स पूजितः पाण्डुपुत्रैर्यथान्यायं सुसंस्तुतः ॥ 5-158-19(37222)
प्रतिगृह्य तु तान्सर्वान्विश्रान्तः सहसैनिकः ।
उवाच मध्ये वीराणां कुन्तीपुत्रं धनञ्जयम् ॥ 5-158-20(37223)
सहायोस्मि स्थितो युद्धे यदि भीतोसि पाण्डव ।
करिष्यामि रणे साह्यमसह्यं तव शत्रुभिः ॥ 5-158-21(37224)
न हि मे विक्रमे तुल्यः पुमानस्तीह कश्चन।
हनिष्यामिरणे भागं यन्मे दास्यसि पाण्डव ॥ 5-158-22(37225)
अपि द्रोणकृपौ वीरौ भीष्मकर्णावथो पुनः ।
अथवा सर्व एवैते तिष्ठन्तु वसुधाधिपाः ॥ 5-158-23(37226)
निहत्य समरे शत्रूंस्तव दास्यामि मेदिनीम् ।
इत्युक्तो धर्मराजस्य केशवस्य च संनिधौ ॥ 5-158-24(37227)
श्रृण्वतां पार्थिवेन्द्राणामन्येषां चैव सर्वशः ।
वासुदेवमभिप्रेक्ष्य धर्मराजं च पाण्डवम्।
उवाच धीमान्कौन्तेयः प्रहस्य सखिपूर्वकम् ॥ 5-158-25(37228)
युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः ।
सहायो घोषयात्रायां कस्तदासीत्सखा मम ॥ 5-158-26(37229)
तथा प्रतिभये तस्मिन्देवदानवसंकुले।
खाण्डवे युध्यमानस्य कः सहायस्तदावभवत् ॥ 5-158-27(37230)
निवातकवचैर्युद्धे कालकेयैश्च दानवैः ।
तत्र मे युध्यमानस्य कः सहायस्तदाभवत् ॥ 5-158-28(37231)
तथा विराटनगरे कुरुभिः सह सङ्गरे।
युध्यतो बहुभिस्तत्र कः सहायोऽभवन्मम ॥ 5-158-29(37232)
उपजीव्य रणे रुद्रं शक्रं वैश्रवणं यमम्।
वरुणं पावकं चैव कृपं द्रोणं च माधवम् ॥ 5-158-30(37233)
धारयन्गाण्डिवं दिव्यं धनुस्तेजोमयं दृढम् ।
अक्षय्यशरसंयुक्तो दिव्यास्त्रपरिबृंहितः ॥ 5-158-31(37234)
कौरवामां कुले जातः पाण्डोः पुत्रो विशेषतः ।
द्रोणं व्यपदिशञ्छिष्यो वासुदेवसहायवान् ॥ 5-158-32(37235)
कथमस्मद्विधो ब्रूयाद्भीतोऽस्मीति यशोहरम् ।
वचनं नरशार्दूल वज्रायुधसमस्वनम् ॥ 5-158-33(37236)
नास्मि भीतो महाबाहो सहायार्थश्च नास्ति मे ।
यथाकामं यथायोगं गच्छ वात्रैव तिष्ठ वा ॥ 5-158-34(37237)
`वैशम्पायन उवाच 5-158-35x(3852)
तच्छ्रुत्वा वचनं तस्य विजयस्य च धीमतः ।'
विनिवर्त्य ततो रुक्मी सेनां सागरसंनिभाम् ।
दुर्योधनमुपागच्छत्तथैव भरतर्षभ ॥ 5-158-35(37238)
तथैव चाभिगम्यैनमुवाच वसुधाधिपः।
प्रत्याख्यातश्च तेनापि स तदा शूरमानिना ॥ 5-158-36(37239)
द्वावेव तु महाराज तस्माद्युद्धादपेयतुः।
रौहिणेयश्च वार्ष्णेयो रुक्मी च वसुधाधिप ॥ 5-158-37(37240)
गते रामे तीर्थयात्रां भीष्मकस्य सुते तथा।
उपाविशन्पाण्डवेया मन्त्राय पुनरेव च ॥ 5-158-38(37241)
समितिर्धर्मराजस्य सा पार्थिवसमाकुला ।
शुशुभे तारकैश्चित्रा द्यौश्चन्द्रेणेव भारत ॥ ॥ 5-158-39(37242)

इति श्रीमन्महाभारते उद्योगपर्वमि सैन्यनिर्याणपर्वणि अष्टप़ञ्चाशदधिकशततमोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-158-1 साक्षात्पुत्र इति संबन्धः ॥ 5-158-2 आकूतीनां संकल्पानाम् । सत्यसंकल्प इत्यर्थः ॥ 5-158-7 मौरवान् आन्त्रतन्तिमयान् । यैरिदानी शार्ङ्गे धनुषि ज्या क्रियते॥ 5-158-30 उपजीव्य आराध्य। रणे युद्धनिमित्तम् ॥ 5-158-32 द्रोणं अयं मम गुरुरिति व्यपदिशन् कथयन् ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.